|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.274. अध्यायः 274
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण भगवद्ध्यानपूर्वकं स्वशरीरमूर्धमध्योद्भेदनेन तेजो ज्वालारूपेण सर्वापरोक्षमाकाशप्रवेशनेन क्षणादन्तर्धानम्॥ 1 ॥ ततो धृतराष्ट्रयुधिष्ठिरादिबी राजवैभवेन चितारोपणेन विधिवदग्निना समुद्दीपनम्॥ 2 ॥ ततो गङ्गामवगाह्य कृतोदकेषु युधिष्ठिरादिषु मूर्तीभूय जलादुद्गत्य भीष्मंप्रति सकरुणं विलापेन शोचन्तीं गङ्गांप्रति कृष्णादिभिराश्वासनम्॥ 3 ॥
Mahabharata - Anushaasana Parva - Chapter Text
वैशम्पायन उवाच।
एवमुक्त्वा कुरून्सर्वान्भीष्मः शान्तनवस्तदा।
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिंदम॥ 13-274-1(92332)
धारयामास चात्मानं धारणासु यथाक्रमम्।
तस्योर्ध्वमगमन्प्राणाः सन्निरुद्धा महात्मनः॥ 13-274-2(92333)
इदमाश्चर्यमासीच्च मध्ये तेषां महात्मनाम्।
सहितैर्ऋषिभिः सर्वैस्तदा व्यासादिभिः प्रभो॥ 13-274-3(92334)
यद्यन्मुञ्चति गात्रं हि स शन्तनुसुतस्तदा।
तत्तद्विशल्यमभवद्योगयुक्तस्य वै क्रमात्।
क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा॥ 13-274-4(92335)
तद्दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः।
सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप॥ 13-274-5(92336)
सन्निरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु च।
जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह॥ 13-274-6(92337)
देवदुन्दुभिनादश्च पुष्पवर्षैः सहाभवत्।
सिद्धा ब्रह्मर्षयश्चैव सादुसाध्विति हर्षिताः॥ 13-274-7(92338)
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप।
निःसृकत्याकाशमाविश्य क्षणेनान्तरधीयत॥ 13-274-8(92339)
एवं स राजशार्दूल नृपः शान्तनवस्तदा।
समयुज्यत लोकैः स्वैर्भरतानां कुलोद्वहः॥ 13-274-9(92340)
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून्।
चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा।
युयुत्सुश्चापि कौरव्यं प्रेक्षकास्त्वितरेऽभवन्॥ 13-274-10(92341)
युधिष्ठिरश्च गाङ्गेयं धृतराष्ट्रश्च दुःखितौ।
छादयामासतुरुभौ क्षौमेर्माल्यैश्च कौरवम्॥ 13-274-11(92342)
धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम्।
चामरे व्यजने शुभ्रे भीमसेनार्जुनावुभौ।
उष्णीषे परिगृह्णीतां माद्रीपुत्रावुभौ तथा॥ 13-274-12(92343)
युधिष्ठिरेण सहितो धृतराष्ट्रश्च पादतः।
वृद्धा स्त्रियः कौरवाणां भीष्मं कुरुकुलोद्वहम्।
तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः॥ 13-274-13(92344)
ततोस्य विदिवच्चक्रुः पितृमेधं महात्मनः।
याजका जुहुवुश्चाग्नौ जगुः सामानि समागाः॥ 13-274-14(92345)
ततश्चन्दनकाष्ठैश्च तथा कालीयकैरपि।
कालागुरुप्रभृतिभिर्गन्धैश्चोच्चावच्चैस्तथा॥ 13-274-15(92346)
समवच्छाद्य गाङ्गेयं सम्प्रज्वाल्य हुताशनम्।
अपसव्यमकुर्वन्त धृतराष्ट्रमुखाश्चिताम्॥ 13-274-16(92347)
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः।
जग्मुर्भागीरथीं पुण्यामृषिजुष्टां कुरूद्वहाः॥ 13-274-17(92348)
अनुगम्यमाना व्यासेन नारदेनासितेन च।
कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः॥ 13-274-18(92349)
उदकं चक्रिरे सर्वे गाङ्गेयस्य महात्मनः।
विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा॥ 13-274-19(92350)
ततो भागीरथी देवी तनयस्योदके कृते।
उत्थाय सलिलात्तस्माद्रुदती शोकविह्वला।
परिदेवयती तत्र कौरकवानभ्यभाषत॥ 13-274-20(92351)
निबोधत यथावृत्तमुच्यमानं मया नृपाः।
राजवृत्तेन सम्पन्नः प्रज्ञयाभिजनेन च।
सत्कर्ता कुरुवृद्धानां पितृभक्तो दृढव्रतः॥ 13-274-21(92352)
जामदग्न्येन रामेण यः पुरा न पराजितः।
दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना॥ 13-274-22(92353)
अश्मसारमयं नूनं हृदयं मम पार्थिवाः।
अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै॥ 13-274-23(92354)
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंपरे।
विजित्यैकरथेनाजौ कन्याश्चायं जहारह॥ 13-274-24(92355)
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन।
हतं शिखण्डिना श्रुत्वा यन्न दीर्यति मे मनः॥ 13-274-25(92356)
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना।
पीडितो नातियत्नेन स हतोऽद्य शिखण्डिना॥ 13-274-26(92357)
एवंविधं बहु तदा विलन्पतीं नहानदीम्।
आश्वासयामास तदा साम्ना दामोदरो विभुः॥ 13-274-27(92358)
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने।
गतः स परमं लोकं तव पुत्रो न संशयः॥ 13-274-28(92359)
वसुरेष महातेजाः शापदोषेण शोभने।
मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि॥ 13-274-29(92360)
स एष क्षत्रधर्मेण युध्यमानो रणाजिरे।
धनंजयेन निहतो नैष देवि शिखण्डिना॥ 13-274-30(92361)
भीष्मं हि कुरुशार्दूलमुद्यतेषु महारणे।
न शक्तः संयुगे हन्तुं साक्षादपि शतक्रतुः॥ 13-274-31(92362)
स्वच्छन्दतस्तव सुतो गतः स्वर्गं शुभानने।
न शक्ता विनिहन्तुं हि रणे तं सर्वदेवताः॥ 13-274-32(92363)
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्य कुरुनन्दनम्।
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव॥ 13-274-33(92364)
वैशम्पायन उवाच। 13-274-34x(7729)
इत्युक्ता सा तु कृष्णेन व्यासेन तु सरिद्वरा।
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह॥ 13-274-34(92365)
सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप।
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः॥ ॥ 13-274-35(92366)
इति श्रीमन्महाभारते शतसाहस्रिकायां संहितायां वैयासिक्यां अनुशासनपर्वणि भीष्मस्वर्गारोहणपर्वणि चतुःसप्तत्यधिकद्विशततमोऽध्यायः॥ 274 ॥ इति अनुशासनपर्व समाप्तम्॥ 13 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
13-274-2 समादधत्स्वमात्मानं धारणानुक्रमस्थितः। इति क.ध.पाठः॥ 13-274-12 उष्णीषे किरीटशिरोवेष्टे॥ 13-274-21 समर्थः कुरुवृद्धानामिति ट.थ.पाठः॥ 13-274-23 दृष्टाप्येवंविधं पुत्रं न दीर्यति सहस्रधेति क.ट.थ.पाठः॥ 13-274-35 अनुज्ञाप्य च ते सर्वे इति ट.थ.पाठः॥
अतः परमाश्वमेधिकं पर्व भविष्यति॥ 14 ॥ तस्यायमाद्यः श्लोकः॥ वैशम्पायन उवाच। कृतोदकं तु राजनं धृतराष्ट्रं युधिष्ठिरः। पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः॥ इदं अनुशासनपर्व कुम्भघोणस्थेन टी.आर्.कृष्णाचार्येण टी.आर्.व्यासाचार्येण च मुम्बय्यां निर्णयसागरमुद्रायन्त्रे मुद्रापितम्। शकाब्दाः 1831 (coming soon) 1910.


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|